This page has not been fully proofread.

नमस्कृतिः
 
52
 
ततो विवेककथनें
मुपदेशस्ततः परम् ।
कालसंख्या ततः प्रोक्त शाेरं तदनन्तरम् ॥ ४० ॥
 
53
 
ततश्चतुर्विधे योगे योगत्रयनिरूपणम् ।
 
ततस्तु हठयोगः स्याद्गोरक्षादिसुसाधितेः ॥ ४१ ॥
 
54
 
द्वितीयो हठयोगश्च मार्कण्डेयादिसाधितेः" ।
 

 
१६०
 
मनः स्यैर्य प्रभावश्च महिमाद्याश्च योगिने ॥ ४२ ॥
 
55
 
योगिचर्या ततः प्रोक्तो ज्ञानं चारिष्टजं तथा ।
विदेहमुक्तिकथनं कालवञ्चनम् ॥ ४३ ॥
 
56
 
सुभाषितवरस्येति कथितोयमनुक्रमः ।
शतं त्रिषष्टचभ्यधिकं परिच्छेदेषु कीर्तितम् ।
गणितं पद्यसंख्याभिः षट्सहस्रं शतत्रयम् ॥ ४४ ॥
 
अथ नमस्कृतिः ॥ ३ ॥
तंत्रादौ गणेशः ।
 
57
 
चलत्कर्णानिलोडू
तसिन्दूरारुणिताम्बरः ।
जयत्यकालेपि सृजन्संध्यामिव गजाननः ॥ १ ॥
कस्यापि ।
 
58
 
उच्चैर्ब्रह्माण्डखण्डद्वतयसहचरं कुम्भयुग्मं दधानः
प्रेङ्कन्नागारिपक्षप्रतिभटविकट श्रोत्रतालाभिरामः ।
देवः शंभोरपत्यं भुजगपति तनुस्पर्धिवर्धिष्णुहस्त-
त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ॥ २ ॥
 
भेरीमांकारस्य ।