This page has not been fully proofread.

२०४
 
शार्ङ्गधरपद्धतिः
 
1246
 
अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे
त मोद्भुत कीर्तनेन रसना केषां न कण्डूयते ।
देव त्वत्तरुणप्रतापतपनज्वालावली शोषिताः
सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः ॥ २९ ॥
 
केषामप्येते ।
 
अथ विशिष्टराजवर्णनम् ॥ ७३ ॥
 
1247
 
गायन्तु किंनरगणाः सह किंनरीभिः
श्रीरामचन्द्र शिखरेषु हिमाचलस्य ।
शन्दुकुन्ददलवालमृणालनाल-
नीहारहारहरहाससितं यशस्ते ॥ १ ॥
श्रीवाल्मीकि कवेः ।
 
1248
 
कूर्मः पादोत्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री
तैलापूर: समुद्राः कनकागिरिरयं वृत्तवार्तमरोहः ।
अर्चिश्चडांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणीपतंगा जयति रघुपते त्वत्प्रतापप्रदीपः ॥ २ ॥
 
हनुमतः ।
 
1249
 
तत्कृतं यन्त्र केनापि तदत्तं यज्ञ केनचित् ।
 
तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ ३ ॥
 
1250
 
हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं
दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वहिषां मन्दिरेषु ।
दन्ताघाताद्गलितदशनस्तं पुनर्वीक्ष्य सद्यो
मन्द मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ ४ ॥
कयोरप्येतौ ।