This page has not been fully proofread.

सामान्यराजप्रशंसा
 
बृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थिति
 
चाप ते वसुधाधिनाथ बलभित्को दण्डकान्तिः श्रिता ॥ २२ ॥
 
कस्यापि ।
 
1240
 
सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम् ।
यस्य प्रतापयशसी हरतः स्म सदृग्गुणासहने ॥ २३ ॥
 
श्रीधनददेवानाम् ।
 
1241
 
अभिमतफलदाता त्वं च कल्पद्रुमश्च
 
प्रकटमिह विशेषं कंचनोदाहरामः ।
 
कथमिव मधुरोक्तिप्रेमसंमानमि
 
तुलयति सुरशाखी देव दानं त्वदीयम् ॥ २४ ॥
 
कस्यापि ।
 
1242
 
कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
 
अयं तु जगतीजानिर्जानाति च ददाति च ॥ २५ ॥
 
कस्यापि ।
 
1243
 
नालिङ्गन्ति कुचद्रयं भवदिभप्रोत्तुङ्ग कुम्भद्रय-
त्रासाद्वेलितासु नैव दधति प्रीतिं तवासिभ्रमात् ।
भ्रूभङ्गान्भवदीय दुर्धरधनुर्भ्रान्त्या भजन्ते न ते
वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल ॥ २६ ॥
 
1244
 
भानु रिपुसेनानु नेतरत्वं महामहाः ।
खद्रान्तर्निजमेवैकमद्राक्षीः संमुखं मुखम् ॥ २७ ॥
 
1245
 
देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रज-
क्षुण्णक्ष्मातललीनपांसुपटल प्राप्तानिमेषेक्षणाः ।
सुत्रामा बहु मन्यते कणिपति पात्तमलमूलस्थितं
सोप्युद्दाम करीन्द्रदुर्धरभरकान्तः सहस्रेक्षणम् ॥ २८ ॥