This page has been fully proofread once and needs a second look.

सामान्यराजप्रशंसा
 

1228
 

युधिष्ठिरोसि भीमोसि चरितैरर्जुनो भवान् ।

प्रज्ञया सहदेवोसि वाच्यता न कुलस्य ते ॥ ११ ॥
 

1229
 

बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः ।
 

पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १२ ॥
 

1230
 
त्व

त्वद्
गुणैर्ग्रथितः शुद्धैरमितैर्ब्रह्मगोलकः ।
 

विधत्ते कीर्तिकन्यायाः विधिराक्रीडकौतुकम् ॥ १३ ॥
 

के नाषाध्प्येते ।
 

1231
 
२०१
 

यशोदयामण्डितकान्तदेहो
 

बाल्येपि गोपालजनस्य नेता ।
 

गोमण्डलं पासि बलेन युक्तः

कथं न राजन्पुरुषोत्तमोसि ॥ १४ ॥
 

कस्यापि
 

1232
 

साशङ्कस्य समाकुलीकृत मतेरत्यन्तनिस्तेजसः
 

स्विन्नाङ्गस्य विकम्पमानहृदयस्यारूढ मन्योर्भृशम् ।

लज्जां संत्यजतः क्रमं विमृशतो विघ्नान्हून्पश्यतः

क्लेशो योर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १५॥
 

कस्यापि ।
 

1233
 

नो काम: प्रतिहन्यते प्रणयिषु स्वमेपप्नेपि नाथ त्वया

नैवाध: कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः ।

नो बह्व्यस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रह-

व्यमाग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १६ ।

कस्यापि ।
 

1234
 

सिक्तायां वीरकण्ठस्थलबहलगलद्र-कक्तधाराम्बुवर्षे
 
षै-
र्मा
द्यन्यामातङ्ग कुम्भोद्दलनविलुलितै र्मौक्तिकैः पापुष्पितायाम् ।