This page has not been fully proofread.

सामान्यराजप्रशंसा
 
1228
 
युधिष्ठिरोसि भीमोसि चरितैरर्जुनो भवान् ।
प्रज्ञया सहदेवोसि वाच्यता न कुलस्य ते ॥ ११ ॥
 
1229
 
बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः ।
 
पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १२ ॥
 
1230
 
त्वगुणैर्मथितः शुद्धैरमितैर्ब्रह्मगोलकः ।
 
विधत्ते कीर्तिकन्यायाः विधिराक्रीडकौतुकम् ॥ १३ ॥
 
के नामध्येते ।
 
1231
 
२०१
 
यशोदयामण्डितकान्तदेहो
 
बाल्येपि गोपालजनस्य नेता ।
 
गोमण्डलं पासि बलेन युक्तः
कथं न राजन्पुरुषोत्तमोसि ॥ १४ ॥
 
कस्यापि
 
1232
 
साशङ्कस्य समाकुलीकृत मतेरत्यन्तनिस्तेजसः
 
स्विन्नाङ्गस्य विकम्पमानहृदयस्यारूढ मन्योर्भृशम् ।
लज्जां संत्यजतः क्रमं विमृशतो विघ्नान्वहून्पश्यतः
क्लेशो योर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १५॥
 
कस्यापि ।
 
1233
 
नो काम: प्रतिहन्यते प्रणयिषु स्वमेप नाथ त्वया
नैवाध: कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः ।
नो बस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रह-
व्यमा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १६ ।
कस्यापि ।
 
1234
 
सिक्तायां वीरकण्ठस्थलबहलगलद्र-कधाराम्बुवर्षे
 
मद्यन्यातङ्ग कुम्भोद्दलनविलुलितै मौक्तिकैः पाष्पतायाम् ।