This page has been fully proofread once and needs a second look.

२००
 
शार्ङ्गधरपद्धतिः
 

1223
 

देव त्वं जय यस्य राजति महाराष्ट्रीकुचोच्चं कुलं

लाटीवाङ्मृदु नर्म चेदिवनिताना भीगभीरं मनः ।

आभीरी कटिविस्तृता मतिरसिर्गौडीकचश्यामल
:
कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाच्छं यशः ॥ ६ ॥
 

1224
 

ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते

तेषां हाद्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः ।

तैरेतत्समलंकृतं निजकुलं किं वा बहु ब्रूमहे
 

ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ ७ ॥
 

कयोरप्येतीतौ
 

1225
 

संग्रामाङ्गणमागतेन भवता चापे समारोपिते

देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
 

कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
 

तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ ८ ॥
 

कस्यापि ।
 

1226
 

देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोच्चैःश्रव-

श्
चन्द्ररावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ ।

किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमा-

त्कृष्णं श्री: शितिकण्ठमाद्रेरितनया नीलाम्बरं रोहिणी ॥ ९ ॥
 

कस्यापि ।
 

1227
 

किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ-

स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।

गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ट्या-

मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ १० ॥

मातङ्गशिदिवाकरस्य ।