This page has been fully proofread once and needs a second look.

१९८
 
शार्ङ्गधरपद्धतिः
 

1211
 

पिब पयः प्रसर क्षितिपान्तिकं

कलय कांचन काञ्चनशृङ्खलाम् ।

इदमवद्यतमं हि यदीहसे
 

भषण संप्रति केसरिणस्तुलाम् ॥ ५२ ॥
 

भीमसिंहपण्डितस्य ।
 

1212
 

उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं
 

यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः ।

गुहागर्ते शून्ये सुचिर मुषितं जम्बुक सखे

किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ५३ ॥
 

हेट्टेन्दुराजस्य ।
 

1213
 

यस्यां स केसरियुवा पदमान्ध

गन्धद्विपेन्द्र रुधिरारुणिताङ्गणायाम् ।
 

तामद्य पर्वतदरीं धुतधूम्रलोमा

गोमायुरेष वपुषा मलिनीकरोति ॥ ५४ ॥
 

कस्यापि ।
 

1214
 

निष्कन्दामर विन्दिनीं स्थपुटितोद्देशां कसेरुस्थलीं

जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् ।

दंष्ट्रायां चतुरर्णवोर्मिपटलैरा प्लावितायामियं

यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी ॥५५॥
 

कस्यापि ।
 

1215
 

शतपदी सति पादशंते क्षमा
 

यदि न गोष्पदमप्यतिवर्तितुम् ।

किमियता द्विपदस्य हनूमतो
 

जलनिधेः क्रमणे विवदामहे ॥ ५६ ॥
 

भल्लदस्य ।
 
टस्य ।