This page has not been fully proofread.

१९८
 
शार्ङ्गधरपद्धतिः
 
1211
 
पिब पयः प्रसर क्षितिपान्तिकं
कलय कांचन काञ्चनशृङ्खलाम् ।
इदमवद्यतमं हि यदीहसे
 
भषण संप्रति केसरिणस्तुलाम् ॥ ५२ ॥
 
भीमसिंहपण्डितस्य ।
 
1212
 
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं
 
यदृच्छाव्यापनद्विपपिशितलेशाः कवलिताः ।
गुहागर्ते शून्ये सुचिर मुषितं जम्बुक सखे
किमेतस्मिन्कु यदसि न गतः सिंहसमताम् ॥ ५३ ॥
 
भहेन्दुराजस्य ।
 
1213
 
यस्यां स केसरियुवा पदमावबन्ध
गन्धद्विपेन्द्र रुधिरारुणिताङ्गणायाम् ।
 
तामद्य पर्वतदरीं धुतधूम्रलोमा
गोमायुरेष वपुषा मलिनीकरोति ॥ ५४ ॥
 
कस्यापि ।
 
1214
 
निष्कन्दामर विन्दिनीं स्थपुटितोदेशां कसेरुस्थलीं
जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् ।
दंष्ट्रायां चतुरर्णवोर्मिपटलैरा प्लावितायामियं
यस्या एव शिशोः स्थिता वसुमती सा पोत्रिणी पुत्रिणी ॥५५॥
 
कस्यापि ।
 
1215
 
शतपदी सति पादशंते क्षमा
 
यदि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो
 
जलनिधेः क्रमणे विवदामहे ॥ ५६ ॥
 
भल्लदस्य ।