This page has not been fully proofread.

संकीणान्यक्तियः
 
1204
 
तुल्यं भूभूति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु-
स्तुल्यं दाढर्च मुदमटङ्कदलनं तुल्यं च पाषाणयोः ।
एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
तहारे विहितापरस्य तु पदाघातास्पदं देहली ॥ ४५ ॥
 
1205
 
तृषार्ते: सारङ्गैः प्रतिजलघरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः ।
खगानां के मेघाः क इह विहगा वा जलमुचा-
मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ४६ ॥
 
कस्यापि ।
 
1206
 
भ्रातः पञ्जरलावक मा कुरु संतोषमन्यानेधनेन ।
प्रातस्तत्रैव धातुर्वामत्वं किं न जानासि ॥ ४७ ॥
 
कस्यापि ।
 
1207
 
मलोत्सर्ग गजेन्द्रस्य मूर्ध्नि काकः करोति यत् ।
कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ४८ ॥
 
1208
 
मासाद्गलितसिस्थस्य करिणः किं गतं भवेत् ।
पिपीलकस्तु तेनैव सकुटुम्बोपि जीवति ॥ ४९ ॥
 
1209
 
बन्धनस्थोपि मातङ्गः सहस्रभरणक्षमः ।
 
अपि स्वच्छन्दचारी वा स्त्रोदरेणापि दुःखितः ॥ ५० ॥
 
1210
 
ऊर्जा नैष दधाति नैव विषयो वाहस्य दोहस्य वा
तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि ।
 
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते
को गृह्णाति कपकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ५१ ॥
 
केषामध्येते ।