This page has been fully proofread once and needs a second look.

१९६
 
शार्ङ्गधरपद्धतिः
 

1197
 

दृढतर गलकनिबन्ध: कूपनिपातोपि कलश ते धन्यः ।

यज्जीवनदानैस्त्वं तर्षामर्षं नृणां हंसि ॥३८ ॥
 

1198
 

यत्सद्गुणोपि सरलोपि तटस्थितोपि
बं

वं
शोद्गतोपि विदधासि नृशंसकर्म ।
 

वक्रात्मनो डिठादण्ड तदेतदस्य
 

जानामि संगतिफलं तत्र कण्टकस्य ॥ ३९ ॥
 

1199
 

द्वात्रिंशद्दशनद्वेषिमध्ये भ्रमसि नित्यशः ।
 

तदिदं शिक्षिता केन जिहेह्वे संचार कौशलम् ॥ ४० ॥
 

1200
 

अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्
तं
सपदि च विनिमीलत्याकुलं वहित्वद्वियोगात् ।

वपुरपि परमेशस्याचितं नोचिनंतं ते

सुरभिमसुरभिभिं वा यत्स्वमङ्गीकरोषि ॥ ४१ ॥
 

1201
 

अपि त्यक्तामि कस्तूरि पामरैः पङ्कशङ्कया ।

अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ४२ ॥
 

केषामध्प्येसे ।
 
ते ।
1202
 

जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो

दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।

यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
 

को जानीते परिमलगुणं काक कस्तूरिकायाः ॥४३ ॥
 

विद्यापतेः ।
 

1203
 

कौस्तुभमुरसि मुरारे: शिरासरसि शशी द्योतते पुरारां जयिनः ।

तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ४४ ॥
 

कस्यापि