This page has not been fully proofread.

१९६
 
शार्ङ्गधरपद्धतिः
 
1197
 
दृढतर गलकनिबन्ध: कूपनिपातोपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तर्षाम नृणां हंसि ॥३८ ॥
 
1198
 
यत्सद्गुणोपि सरलोपि तटस्थितोपि
बंशोगतोपि विदधासि नृशंसकर्म ।
 
वक्रात्मनो वडिठादण्ड तदेतदस्य
 
जानामि संगतिफलं तत्र कण्टकस्य ॥ ३९ ॥
 
1199
 
द्वात्रिंशदशनद्वेषिमध्ये भ्रमसि नित्यशः ।
 
तदिदं शिक्षिता केन जिहे संचार कौशलम् ॥ ४० ॥
 
1200
 
अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्त
सपदि च विनिमीलत्याकुलं वहियोगात् ।
वपुरपि परमेशस्याचितं नोचिनं ते
सुरभिमसुरभि वा यत्स्वमङ्गीकरोषि ॥ ४१ ॥
 
1201
 
अपि त्यक्तामि कस्तूरि पामरैः पङ्कशङ्कया ।
अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ४२ ॥
 
केषामध्येसे ।
 
1202
 
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।
यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
 
को जानीते परिमलगुणं काक कस्तूरिकायाः ॥४३ ॥
 
विद्यापतेः ।
 
1203
 
कौस्तुभमुरसि मुरारे: शिरास शशी द्योतते पुरा जयिनः ।
तनुजन्मानौ जहर्जग्मतुरियत गतिं पश्य ॥ ४४ ॥
 
कस्यापि