This page has been fully proofread once and needs a second look.

संकीर्णान्योक्तयः
 

आकूतामृतशीतलाः
 
श्रमयसे किं वा गिरो नागरी-

र्मुग्धे कामिनि किं मुधा घटयास कीयसि क्लीबे कटाक्षच्छटाः ॥ ३१ ॥
 

1191
 

वक्रा नैष तनूविवर्तनगतीर्गृह्णाति साचिस्मित-

स्मे रैर्दृग्वलनैरमुष्य न मनाक्चेतः परावर्तते ।

हस्ते त्वं मुनिदार कस्य पतिता कल्याणि तन्त्रीनीयतां

वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ३२ ॥
 

1192
 

स्रग्दाम मूर्धनि निधेहि गवेधुकानां

गुञ्जामयीमुरसि धारय हारयष्टिम् ।

बाले कलावति चिरं पतितासि पल्लो
तौ
लौ
तल्लौ
हमन्यदपि भूषण मेषणीयम् ॥३३ ॥
 

केषामध्प्येते ।
 

1193
 

भ्रातः काञ्चनलेपगोपित बहिस्ताम्राकृते सर्वतो

मा भैषी: कलश स्थिरो भव चिरं देवालयस्योपरि ।

तात्म्रत्वं गतमेव काञ्चनमयी कीर्ति: स्थिरा तेधुना

नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः ॥ ३४ ॥
 

कस्यापि ।
 

1194
 

न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।

कस्तत्र भवतः पान्थ कूपेम्ब्रुबुग्रहणादरः ॥ ३५ ॥
 
१९५
 

1195
 

रक्ष पात्रगतं स्नेहं प्रदीपश्रीविवर्धनम् ।
 

प्रयास्यन्ति विनानेन भस्मत्वं भवतो गुणाः ॥ ३६॥

एतौ राजपितामह महादेवस्य ।
 

1196
 

को हि तुलामधिरोहति शुचेिना दुग्धेन सहजमधुरेण ।

तप्तं विकृतं मथितं केवलमुहिद्गिरति यत्स्नेहम् ॥ ३७ ॥
 

कस्यापि ।