This page has not been fully proofread.

संकीर्णान्योक्तयः
 
आकूतामृतशीतलाः
 
श्रमयसे किं वा गिरो नागरी-
र्मुग्धे कामिनि किं मुधा घटयास कीबे कटाक्षच्छटाः ॥ ३१ ॥
 
1191
 
वक्रा नैष तनूविवर्तनगतीगृह्णाति साचिस्मित-
स्मे रैर्दृग्वलनैरमुष्य न मनाक्चेतः परावर्तते ।
हस्ते त्वं मुनिदार कस्य पतिता कल्याणि तन्त्रीयतां
वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ३२ ॥
 
1192
 
स्रग्दाम मूर्धनि निधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम् ।
बाले कलावति चिरं पतितासि पल्लो
तौहमन्यदपि भूषण मेषणीयम् ॥३३ ॥
 
केषामध्येते ।
 
1193
 
भ्रातः काञ्चनलेपगोपित बहिस्ताम्राकृते सर्वतो
मा भैषी: कलश स्थिरो भव चिरं देवालयस्योपरि ।
तात्रत्वं गतमेव काञ्चनमयी कीर्ति: स्थिरा तेधुना
नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः ॥ ३४ ॥
 
कस्यापि ।
 
1194
 
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।
कस्तत्र भवतः पान्थ कूपेम्ब्रुग्रहणादरः ॥ ३५ ॥
 
१९५
 
1195
 
रक्ष पात्रगतं स्नेहं प्रदीपश्रीविवर्धनम् ।
 
प्रयास्यन्ति विनानेन भस्मत्वं भवतो गुणाः ॥ ३६॥
एतौ राजपितामह महादेवस्य ।
 
1196
 
को हि तुलामधिरोहति शुचेिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं केवलमुहिरति यत्स्नेहम् ॥ ३७ ॥
 
कस्यापि ।