This page has been fully proofread once and needs a second look.

६ शार्ङ्गधरपद्धतिः

42

प्रियस्य शिक्षानुनयौ प्रसादश्च परस्परम् ।
सूर्यास्ते चक्रदुःखं च तमसो वर्णनं तथा ॥ ३० ॥

43

संचारश्चाभिसारीणां शशाङ्कोदयवर्णनम् ।
पानगोष्ठी ततः प्रोक्ता चाटुप्रभृतिवर्णनम् ॥ ३१ ॥

44

सखीवाक्यं नववधूक्रीडायां तदनन्तरम् ।
सुरतक्रीडिताख्यानं विपरीतरतं तथा ॥ ३२ ॥

45

निवृत्तिः सुरतस्याथ निशीथे क्रीडनादिकम् ।
प्रभातवर्णनं वायुसूर्ययोर्वर्णनं तथा ॥ ३३ ॥

46

रात्रिसंभोगचेष्टायाः प्रातःप्रकटनं ततः ।
अथ मिश्रकशृङ्गारे सतीकुलवधूस्थितिः ॥ ३४ ॥

47

असतीचरितं तद्वद्वसन्तादेश्च वर्णनम् ।
ग्रीष्मादेर्वर्णनं तद्वद्वर्षादेरपि वर्णनम् ॥ ३५ ॥

48

शरत्स्वभावव्याख्यानं हेमन्तादेश्च वर्णनम् ।
शिशिरादेस्तथाख्यानं संमिश्राख्यानकं ततः ॥ ३६ ॥

49

ततो वीररसोक्तिः स्यात्करुणारसवर्णनम् ।
अद्भुतस्य रसभ्योक्तिरथ हास्यरसोक्तयः ॥ ३७ ॥

50

भयानकश्च बीभत्सस्ततो रौद्ररसोक्तयः ।
अथ शान्तरसे पूर्वं वैराग्यस्य प्रशंसम् ॥ ३८ ॥

51

अनित्यतासमाख्यानं विषयादिविडम्बनम् ।
पश्चात्तापस्य कथनं कालस्य चरितं तथा ॥ ३९ ॥