Proofing

✦

This page has been fully proofread once and needs a second look.

संकीर्णान्योक्तयः
 

1180
 

अस्तं गतोयमर विन्दवनैकबन्धु-

र्
भस्वामन्न लङ्घयति कोपि विधिप्रणीतम् ।

हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
घराि

धीरा
स्तरन्ति विपदं न तु दीनाचेत्ताः ॥ २१ ॥
 

कस्यापि ।
 

1181
 

रात्रिर्गमिष्यति भविष्यति सुप्रभात
 
तं
भास्वानुदेष्यति हसिष्यति पङ्कजं च ।
 

इत्यादि चिन्तयति कोशगते द्विरेफे
 

हा हन्त हन्त नलिनीं गज उन्मुमूल ॥ २२ ॥
 

कस्यापि ।
 

1182
 

हंसः प्रयाति शन के कैर्यदि यातु तस्य
 

नैसर्गिकी गतिरियं हि न तत्र चित्रम् ।

गत्या तथाया जिगमिषुर्वबक एष मूढ-

श्चे
तो दुनोति सकलस्य जनस्य नूनम् ॥ २३ ॥
 

कस्यापि ।
 

1183
 

कल्याणं नः किमधिकमितो जीवनार्थथं पथस्त्वं

छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।

न त्वेतस्मिन्न शनिपिशुनैरात पैराकुलाना-

मध्वन्यानामशरणमरुप्रान्तरे कोभ्युपायः ॥ २४ ॥
 

कस्यापि ।
 

1184
 
१९३
 

भ्रातर्याग्राम्य कुविन्द कन्दलयता वस्त्राण्यमूनि त्वया

गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।

किं त्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां

यन्नोज्झन्ति कुत्रचस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः ॥ २५ ॥
 

कस्यापि ।