शार्ङ्गधरपद्धतिः /208
This page has not been fully proofread.
संकीर्णान्योक्तयः
1180
अस्तं गतोयमर विन्दवनैकबन्धु-
भस्वाम लङ्घयति कोपि विधिप्रणीतम् ।
हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
घरािस्तरन्ति विपदं न तु दीनाचेत्ताः ॥ २१ ॥
कस्यापि ।
1181
रात्रिर्गमिष्यति भविष्यति सुप्रभात
भास्वानुदेष्यति हसिष्यति पङ्कजं च ।
इत्यादि चिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उन्मुमूल ॥ २२ ॥
कस्यापि ।
1182
हंसः प्रयाति शन के यदि यातु तस्य
नैसर्गिकी गतिरियं हि न तत्र चित्रम् ।
गत्या तथा जिगमिषुर्वक एष मूढ-
तो दुनोति सकलस्य जनस्य नूनम् ॥ २३ ॥
कस्यापि ।
1183
कल्याणं नः किमधिकमितो जीवनार्थ पथस्त्वं
छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।
न त्वेतस्मिन्न शनिपिशुनैरात पैराकुलाना-
मध्वन्यानामशरणमरुप्रान्तरे कोभ्युपायः ॥ २४ ॥
कस्यापि ।
1184
१९३
भ्रातर्याम्य कुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।
किं त्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां
यन्नोज्झन्ति कुत्रस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः ॥ २५ ॥