This page has been fully proofread once and needs a second look.

१९२
 
शार्ङ्गधरपद्धतिः
 

1174
 

मौलीलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो

निर्यत्रोनोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।

अन्यत्रानृजुवर्त्म वारिग्द्विरसना वक्रे विषं वीक्षणं

सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥ १५ ॥
 

कस्यापि ।
 

1175
 

दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् ।

दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ १६ ॥
 

कस्यापि ।
 

1176
 

यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।

आशीविषः स देदैवादद्य करण्डस्थितिं सहते ॥ १७ ॥
 

कस्यापि ।
 

1177
 

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने
 

दातुं कर्णचपेट मुज्झितभिया हस्तः समुल्लासितः ।

यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं

तत्सर्वं विषमन्त्रिगोणो भगवतः कस्यापि लीलायितम् ॥ १८ ॥
 

कस्यापि ।
 

1178
 

श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचिन्मदात्याहितं

सिन्धावन्धकुटुम्बदर्दुरकुलं हर्षादिदं ध्यायति ।

गाम्भीर्याद्यदि ते न विबिभ्यति न वा त्रस्यन्ति भेकीशिशो-
स्

त्रागत्य सुखं वसन्तु तिमयो जातानुकम्पावयम् ॥ १९ ॥
 

कस्यापि ।
 

1179
 

आपूर्येत पुनः स्फुरच्छरिका शारोर्मिभिर्वारिभि-

र्
भूयोपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम् ।

इत्या शाशततन्तुबद्ध हृदयो नक्तंदिनं दीनधीः

शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ २० ॥
 

कस्यापि ।