This page has not been fully proofread.

१९२
 
शार्ङ्गधरपद्धतिः
 
1174
 
मौली सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्रोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी ।
अन्यत्रानृजुवर्त्म वारिसना वक्रे विषं वीक्षणं
सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥ १५ ॥
 
कस्यापि ।
 
1175
 
दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् ।
दर्शनपथमापनं पन्नगकुलमाकुलीभवति ॥ १६ ॥
 
कस्यापि ।
 
1176
 
यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव ।
आशीविषः स देवादद्य करण्डस्थितिं सहते ॥ १७ ॥
 
कस्यापि ।
 
1177
 
भेकेन कणता सरोषपरुषं यत्कृष्णसर्पानने
 
दातुं कर्णचपेट मुज्झितभिया हस्तः समुल्लासितः ।
यच्चाधोमुखमक्षिणी पिदधता नागेन तूष्णीं स्थितं
तत्सर्वं विषमन्त्रिगो भगवतः कस्यापि लीलायितम् ॥ १८ ॥
 
कस्यापि ।
 
1178
 
श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचिन्मदात्याहितं
सिन्धावन्धकुटुम्बदरकुलं हर्षादिदं ध्यायति ।
गाम्भीर्याचदि ते न विभ्यति न वा त्रस्यन्ति भेकीशिशो-
स्त्रागत्य सुखं वसन्तु तिमयो जातानुकम्पावयम् ॥ १९ ॥
 
कस्यापि ।
 
1179
 
आपूर्येत पुनः स्फुरच्छकरिका शारोर्मिभिर्वारिभि-
भूयोपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम् ।
इत्या शाशततन्तुबद्ध हृदयो नक्तंदिनं दीनधीः
शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ २० ॥
 
कस्यापि ।