This page has been fully proofread once and needs a second look.

संकीर्णान्योक्तयः
 

 
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
 

युक्तं तवेह कमले कमले स्थितिर्यत् ॥ ९ ॥

कयोरप्येतौ ।
 

1169
 

जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।

घटचेटीविट: किंस्विज्जाना त्यमर कामिनीम् ॥ १० ॥
 

कस्यापि ।
 

1170
 

यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
 

करेणानीतस्त्वं वससि सह हारेण गुणिना ।
 

मुहुः कुर्वन्गीतं कुचकलशपीठोपरि ठुलुठ-

न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ११ ॥
 

कस्यापि ।
 

1171
 

यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-

कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।

ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं

स्वभावस्वच्छानां विपदपि सुखं नान्तरयति ॥ १२ ॥
 

कस्यापि ।
 

1172
 
१९१
 

यत्पूर्वैवं पवनाग्निशस्त्रसलिलैश्चीर्णं तपो दुष्करं

तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः ।

मुग्धापाण्डुकपोलचुम्बन सुखं सङ्गश्च रत्नोत्तमैः

प्राप्तुं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥१३॥
 

कस्यापि ।
 

1173
 

सद्वृत्तसद्गुणविचित्र महार्हकान्त

कान्ता घनस्तनतटाञ्चित चारुमूर्ते ।
 

आ: पामरीकठिनकण्ठविलग्नभङ्ग
 

हा दार हारितमहो भवता गुणित्वम् ॥ १४ ॥
 

कस्यापि ।