This page has not been fully proofread.

संकीर्णान्योक्तयः
 
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
 
युक्तं तवेह कमले कमले स्थितिर्यत् ॥ ९ ॥
कयोरप्येतौ ।
 
1169
 
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।
घटचेटीविट: किंस्विज्जाना त्यमर कामिनीम् ॥ १० ॥
 
कस्यापि ।
 
1170
 
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
 
करेणानीतस्त्वं वससि सह हारेण गुणिना ।
 
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि ठुठ-
न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ११ ॥
 
कस्यापि ।
 
1171
 
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-
कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।
ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं
स्वभावस्वच्छानां विपदपि सुखं नान्तरयति ॥ १२ ॥
 
कस्यापि ।
 
1172
 
१९१
 
यत्पूर्वै पवनाग्निशस्त्रसलिलैचीर्ण तपो दुष्करं
तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः ।
मुग्धापाण्डुकपोलचुम्बन सुखं सङ्गश्च रत्नोत्तमैः
प्राप्तुं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥१३॥
 
कस्यापि ।
 
1173
 
सद्वृत्तसद्गुणविचित्र महाईकान्त
कान्ता घनस्तनतटाञ्चित चारुमूर्ते ।
 
आ: पामरीकठिनकण्ठविलमभङ्ग
 
हा दार हारितमहो भवता गुणित्वम् ॥ १४ ॥
 
कस्यापि ।