This page has been fully proofread once and needs a second look.

संकीर्णान्योक्तयः

1158
 

अभ्युन्नतेपि जलदे जगदेकसार-

साधारणप्रणयहारिणि हा यदेते ।

उल्लासलास्यललितं तरवो न यान्ति
 

हे दावपावक स तावक एव दोषः ॥ ४ ॥
 

कस्यापि ।
 

1159
 

विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता

धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता ।

भस्मीकृत्य सुपुष्पपल्लवफलैर्न [म्रान्महापादपा-

नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ५ ॥
५॥
 

---------------
अथ संकीर्णान्योक्तयः ॥ ७१ ॥
 

1160
 
१८९
 

बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने

कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।

धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं

स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोस्ति तद्ब्ग्राहकः ॥ १ ॥
 

कस्यापि ।
 

1161
 

छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि

क्षीब: क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः

सृष्ट्वा
संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
कं सेवे करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः ॥ २ ॥
 

धोईकवेः ।
 

1162
 

दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।

कस्य तरोरुपरिष्टात्खिन्नोसौ श्रान्तिमपनयतु ॥ ३ ॥
 

कस्यापि ।