शार्ङ्गधरपद्धतिः /204
This page has not been fully proofread.
संकीर्णान्योक्तयः
1158
अभ्युन्नतेपि जलदे जगदेकसार-
साधारणप्रणयहारिणि हा यदेते ।
उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक स तावक एव दोषः ॥ ४ ॥
कस्यापि ।
1159
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता ।
भस्मीकृत्य सुपुष्पपल्लवफलैर्न [म्रान्महापादपा-
नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ५ ॥
५॥
अथ संकीर्णान्योक्तयः ॥ ७१ ॥
1160
१८९
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने
कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोस्ति तद्ब्राहकः ॥ १ ॥
कस्यापि ।
1161
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
क्षीब: क्रीडसि मातृभिर्यदि रतिं धत्से इमशाने यदि ।
संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः
सृष्ट्वा
कं सेवे करवाणि किं त्रिजगती शून्या त्वमेवेश्वरः ॥ २ ॥
धोईकवेः ।
1162
दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिनोसौ श्रान्तिमपनयतु ॥ ३ ॥