This page has been fully proofread once and needs a second look.

मरुस्थलान्याक्तयः
 

भवतु सुकृतैर ध्वन्यानामशेषजलो भवा-

नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ २ ॥
 

कयोरप्येतौ ।
 

1147
 

भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-

क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि ।

येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप

क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ३ ॥
 

श्रीभोजदेवस्य ।
 

1148
 

सगुणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः ।
 

नीचोपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ४ ॥
४॥

शार्ङ्गधरस्य ।
 

1149
 

यद्यपि बहुगुणगम्यं जीवनमेतस्य कूपमुख्यस्य ।

जयति तथापि विवेको दानं पात्रानुमानेन ॥ ५ ॥
 

कस्यापि
 

---------------
अथ मरुस्थलान्योक्तयः ॥ ६९ ॥
 

1150
 

मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।

तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥
 

कस्यापि ।
 

1151
 

पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्
गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।

एषाशेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः

सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः ॥ २ ॥
 

कस्यापि ।
 

1152
 

भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-

स्तत्ता वृदृक्तृषितस्य ते खलमतिः सोयं जलं गूहते ।
 
१८७