This page has not been fully proofread.

मरुस्थलान्याक्तयः
 
भवतु सुकृतैर ध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ २ ॥
 
कयोरप्येतौ ।
 
1147
 
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि ।
येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप
क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ३ ॥
 
श्रीभोजदेवस्य ।
 
1148
 
सगुणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः ।
 
नीचोपि कूपः सत्पात्रैर्जीवनार्थ समाश्रितः ॥ ४ ॥
४॥
शार्ङ्गधरस्य ।
 
1149
 
यद्यपि बहुगुणगम्यं जीवनमेतस्य कूपमुख्यस्य ।
जयति तथापि विवेको दानं पात्रानुमानेन ॥ ५ ॥
 
कस्यापि
 
अथ मरुस्थलान्योक्तयः ॥ ६९ ॥
 
1150
 
मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥
 
कस्यापि ।
 
1151
 
पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्ग
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।
एषाशेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः ॥ २ ॥
 
कस्यापि ।
 
1152
 
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-
स्तत्ता वृक्तृषितस्य ते खलमतिः सोयं जलं गूहते ।
 
१८७