This page has been fully proofread once and needs a second look.

૧૬
 
शार्ङ्गधरपद्धतिः
 

1140
 

रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे ।

अमृतकरे च कलावति पद्मिनि वामा कुतो भवती ॥ ८ ॥
 

श्रीधनदेवानाम् ।
 

1141
 

उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।

संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥ ९ ॥
 

कस्यापि ।
 

1142
 

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।

कथं कमलनालस्य मा भूवन्भंगुरा गुणाः ॥
 
१० ॥
 

कस्यापि ।
 

1143
 

एतेन गुणा: पङ्कज सन्तोपि न ते प्रकाशमा यान्ति ।

यल्
लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ ११ ॥
 

कस्यापि ।
 

1144
 

कामं भवन्तु मधुलम्पटपटपदो षट्पदौ-
-
संघट्टघुर्घुरघनध्वनयोब्जखण्डाः ।

गायन्नतिश्रुतिमुखं विधिरेव यत्र
 

भृङ्गः स कोपि धरणीधरनाभिपद्मः ॥ १२ ॥
 

श्रुतधरस्य ।
 

----------
अथ कूपान्योक्तयः ॥ ६८ ॥
 

1145
 

चित्रं न तद्यदयमम्बुधिरम्बुदौघ-

सिन्धुप्रवाहपरिपूरतया महीयान् ।

त्वं त्वर्थिनामुपकरोषि यदल्पकूप

निष्पीद्य कुक्षियुगलं हि महत्त्वमेतत् ॥ १ ॥
 

1146
 

दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप
पर
हे
पर
मुपकृतं यत्ते वक्तुं पुनर्न वयं क्षमाः ।