This page has not been fully proofread.

૧૬
 
शार्ङ्गधरपद्धतिः
 
1140
 
रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे ।
अमृतकरे च कलावति पद्मिनि वामा कुतो भवती ॥ ८ ॥
 
श्रीधनवदेवानाम् ।
 
1141
 
उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।
संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥ ९ ॥
 
कस्यापि ।
 
1142
 
अन्तछिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भरा गुणाः ॥
 
१० ॥
 
कस्यापि ।
 
1143
 
एतेन गुणा: पङ्कज सन्तोपि न ते प्रकाशमा यान्ति ।
यलक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ ११ ॥
 
कस्यापि ।
 
1144
 
कामं भवन्तु मधुलम्पटपटपदोघ-
संघट्टघुर्घुरघनध्वनयोजखण्डाः ।
गायन्नतिश्रुतिमुखं विधिरेव यत्र
 
भृङ्गः स कोपि धरणीधरनाभिपद्मः ॥ १२ ॥
 
श्रुतधरस्य ।
 
अथ कूपान्योक्तयः ॥ ६८ ॥
 
1145
 
चित्रं न तद्यदयमम्बुधिरम्बुदौघ-
सिन्धुप्रवाहपरिपूरतया महीयान् ।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीय कुक्षियुगलं हि महत्त्वमेतत् ॥ १ ॥
 
1146
 
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप
पर मुपकृतं यत्ते वक्तुं पुनर्न वयं क्षमाः ।