This page has not been fully proofread.

13
 
कमलान्योक्तपः
 
अथ कमलान्योक्तयः ॥ ६७ ॥
 
1133
 
रे पद्मिनीदल तवात्र मया चरित्रे
 
दृष्टं विचित्रमित्र वद्विदितं ध्रुवं तत् ।
येरेव शुद्धसलिलैः परिपालितस्त्वं
 
तेभ्यः पृथग्भवसि पडूभवोसि यस्मात् ॥ १ ॥
शार्ङ्गधरस्य
 
1134
 
पङ्कज जलेषु वास: प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।
यद्यपि तदपि तवैतचित्रं मित्रोदये हर्षः ॥ २ ॥
 
लक्ष्मीधरस्य ।
 
1135
 
कुसुभं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्याः ।
अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥३॥
 
कृष्णस्य ।
 
1136
 
वरमश्रीकता लोके नासमानसमानता ।
इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ ४ ॥
 
कस्यापि ।
 
1137
 
बालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
ईण्डे कर्कशता मुखेतिमृदुता मिचे महान्प्रश्रयः ।
आमूलं गुणसंग्रहव्यसनिता द्वेषच दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तव तंत्र श्रियः ॥ ५ ॥
 
कस्यापि ।
 
1138
 
प्रसारितकरे मित्रे जगदुद्द्योतकारिणि ।
 
किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥ ६ ॥
 
कस्यापि ।
 
1139
 
लक्ष्मीसंपर्कजातोयं दोषः पद्मस्य निश्चितम् ।
 
यदेष गुणसंदोहषाम्नि चन्द्रे
 
परामुखः
 
॥ ७॥
 
१८५
 
Y