This page has been fully proofread once and needs a second look.

अनुक्रमणिका. ५
 
32
 
अश्वप्रशंसा विख्याता धनुर्वेदस्ततः परम् ।
गान्धर्वशास्त्रमपरे वृक्षायुर्वेद एव च ॥ २० ॥
 
33
 
तथैव शकुनज्ञानं पशूनां लक्षणानि च ।
विषापहरणं तद्वद्भूतविद्या ततः परम् ॥ २१ ॥
 
34
 
बालग्रहोपशमनं कौतुकानि ततः परम् ।
कल्पस्थानानि केशानां रञ्जनानि ततः परम् ॥ २२ ॥
 
35
 
अथ सामान्यशृङ्गारे युवतीनां प्रशंसनम् ।
स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनम् ॥ २३ ॥
 
36
 
स्त्री सेवाकथनं तद्वत्संकेतादिप्रशंसनम् ।
बालाया वर्णनं त तद्वद्वयः संघेश्च वर्णनम् ॥ २४ ॥
 
37
 
तरुणीवर्णनं तद्वत्समग्रस्त्रीप्रशंसनम् ।
विप्रलम्भकशृङ्गारे प्रियप्रस्थानवर्णनम् ॥ २५ ॥
 
38
 
नायिकावचनं तद्वद्वियुक्तायाः स्थितिस्तथा ।
सखीवाक्यं वियुक्तायां वियोगिन्याः प्रभाषणम् ॥२६॥
 
39
 
दूतिकाप्रेषणं कान्ते प्रलापश्च वियोगिनः ।
दूत्युक्तिर्नायकस्याग्रे नायिकायां तदुक्तयः ॥ २७ ॥
 
40
 
उपहासादिकं दूत्या नायिकायास्ततः परम् ।
अथ संभोगशृङ्गारे परस्परविलोकनम् ॥ २८ ॥
 
41
 
प्रियातिथ्यादिकं तद्वन्मानिनी मानवर्णनम् ।
कलहोक्त्यादिकथनं मिथुनस्योक्तयस्तथा ॥ २९ ॥