This page has been fully proofread once and needs a second look.

१८४
 
शार्ङ्गधरपद्धतिः
 

 
मेकाः सन्तु बका रसन्तु चरतु स्वच्छन्दमाटिस्टे

हंहो पद्मसरः कुतः कतिपयैर्हंसैर्विना श्रीस्तव ॥ २ ॥
 

कस्यापि ।
 

1128
 

 

अयमत्रसरः सरस्ते सलिलैरुपकर्तुमार्थमर्थिनामनिशम्

इदमपि च सुलभमम्भो भवति पुनर्जलधराभ्युदये ॥ ३ ॥
 

श्रीवल्लभदेवस्य ।
 

1129
 

एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल-

क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।

केनेदं विकसत्कुशेशय कुटीकोणक्वणत्यहृषट्पद-

श्रेणिप्रीणित पान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ४ ॥
 

कस्यापि ।
 

1130
 

स्तोकाम्भ: परिवर्तिताङ्गशफरमाग्रासार्थिनः सर्वतो

लप्स्यन्ते वकटिट्टिभवभूप्रभृतयः स्वल्पेषु साधुस्थितिम् ।

सद्यः शोषमुपागतेद्य सरसि श्रीसद्मपद्माकरे

तस्मिन्पङ्कजिनीविलासरुचयो हंसा क्व यास्यन्त्यमी ॥ ५ ॥
 

इन्द्रकवेः ।
 

1131
 

माद्यद्दिग्गजदानलिप्तकरट प्रक्षालनक्षोभिता
 

व्योम्नः सीमिम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।

कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन-

स्तस्याप्येक बकप्रचारकलुषं कालेन जातं जलम् ॥ ६ ॥
 

विज्जकायाः ।
 

1132
 

रे पद्माकर यावदस्ति भवतो मध्यं पयः पूरितं

तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।

पश्चात्त्वं समटद्बकोट चटुल त्रोटीपुटव्याहति-

त्रुट्यत्कर्कट कर्पर कर्परव्यतिकरैर्निन्दास्पदं यास्यसि ।॥ ७ ॥
 

कस्यापि ।