This page has not been fully proofread.

१८४
 
शार्ङ्गधरपद्धतिः
 
मेकाः सन्तु बका रसन्तु चरतु स्वच्छन्दमाटिस्टे
हंहो पद्मसरः कुतः कतिपयै सविना श्रीस्तव ॥ २ ॥
 
कस्यापि ।
 
1128
 

 
अयमत्रसरः सरस्ते सलिलैरुपकर्तुमार्थनामनिशम्
इदमपि च सुलभमम्भो भवति पुनर्जलधराभ्युदये ॥ ३ ॥
 
श्रीवल्लभदेवस्य ।
 
1129
 
एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल-
क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।
केनेदं विकसत्कुशेशय कुटीकोण कणत्यहृद-
श्रेणिप्रीणित पान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ ४ ॥
 
कस्यापि ।
 
1130
 
स्तोकाम्भ: परिवर्तिताङ्गशफरमासार्थिनः सर्वतो
लप्स्यन्ते वकटिट्टिभवभूतयः स्वल्पेषु साधुस्थितिम् ।
सद्यः शोषमुपागतेद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुचयो हंसा क यास्यन्त्यमी ॥ ५ ॥
 
इन्द्रकवेः ।
 
1131
 
माद्यद्दिग्गजदानलिप्तकरट प्रक्षालनक्षोभिता
 
व्योम्नः सीमि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।
कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन-
स्तस्याप्येक बकप्रचारकलुषं कालेन जातं जलम् ॥ ६ ॥
 
विज्जकायाः ।
 
1132
 
रे पद्माकर यावदस्ति भवतो मध्यं पयः पूरितं
तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय ।
पश्चात्वं समटकोट चटुल त्रोटीपुटव्याहति-
त्रुट्यत्कर्कट कर्पर व्यतिकरैर्निन्दास्पदं यास्यसि ।॥ ७ ॥
 
कस्यापि ।