This page has been fully proofread once and needs a second look.

तटाकान्योक्तयः
 

1122
 

आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कहो

कल्लो
लाः क्षणभङ्गुराः पुनरमी नीता: परामुन्नतिम् ।

अन्तर्माग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा

भ्रातः शोण न सोस्ति यो न हसति त्वत्संपदां विप्लवान् ॥ २॥
 

1123
 

छायां प्रकुर्वन्ति नमन्ति पुष्पैः

फलानि यच्छन्ति तटद्रुमा ये ।


उन्मूल्य तानेव नदी प्रयाति

तरंगिणां क्व प्रतिपन्नमस्ति ॥ ३ ॥
 

1124
 

कतिपयदेिवसस्थायी पूरो दूरोन्नतोपि भविता ते ।

तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ४ ॥
 

1125
 

कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् ।

वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलालंघ्यासि ॥ ५ ॥
 

केषामप्येते ।
 

--------------
अथ तटाकान्योक्तयः ॥ ६६ ॥
 

1126
 

हंसैर्लब्धप्रशंसैस्तर लितकमलप्रत्तर ङ्गैस्सारंगै-

र्
नीरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनैः ।

पाली रूढ
द्रुमालीतल सुखशयितस्त्रीप्रणीतैश्च गीतै-

र्
भीति प्रक्रीडदातिस्तव सलिलवलच्चक्रवाकस्तटाकः ॥ १॥
 

कस्यापि ।
 

1127
 

क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्क: परिष्वज्यतां

ञ्जुद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिड्डिट्ठिभः ।
 
१८३