This page has been fully proofread once and needs a second look.

रत्नान्योक्तयः
 

 
यस्य स्फारफणामणीणौ निलयिनी तिर्यक्फणालंकृतिः

शेष: सोप्यगमव्द्यदङ्गदपदं रुद्राय तस्मै नमः ॥ २१ ॥
 

एतौ बधिरकवेः ।
 

--------------
रत्नान्योक्तयः ॥ ६३ ॥
 

1098
 

अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।

येन पाषाणखण्डस्य मौल्यमल्पं वसुंधरा ॥ १ ॥
 

1099
 

यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।

करोति तत्र किं नाम नारीनखविलेखनम् ॥ २॥
 
1100
 

1100
सोमकान्तो मणिः स्वच्छ: सूर्यकान्तस्तथा न किम् ।

उद्द्वागारे तु विशेषोस्ति तयोरमृतवह्निजः ॥ ३ ॥
 
1101
 

1101
स्फटिकस्य गुणो योसौ स एवायाति दोषताम् ।

धत्ते स्वच्छतया छायां यतो मलवतामपि ॥ ४ ॥
 

1102
 

सुधाकरकर स्पर्शाद्हिर्द्रवसि सर्वतः ।

चन्द्रकान्तमणे तेन्तर्मृदुत्वं लोकविश्रुतम् ॥ ५
 

1103
 

वपुःपरीणाहगुणेन तेभ्यो
 

यशस्विनः किं मणयो भवन्ति ।
 
१७९
 

तथापि चूडासु महीपतीनां
 

त एव खेलन्ति न गण्डरौलाः ॥ ६ ॥
 

1104
 

त्यज निजगुणाभिमानं मरकत पतितोसि पामरे वणिजि ।

काचमणेरपि मौल्यं लभसे यत्नादपि ते श्रेयः ॥ ७ ॥