शार्ङ्गधरपद्धतिः /194
This page has not been fully proofread.
रत्नान्योक्तयः
यस्य स्फारफणामणी निलयिनी तिर्यक्फणालंकृतिः
शेष: सोप्यगमव्यदङ्गदपदं रुद्राय तस्मै नमः ॥ २१ ॥
एतौ बधिरकवेः ।
रत्नान्योक्तयः ॥ ६३ ॥
1098
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मौल्यमल्पं वसुंधरा ॥ १ ॥
1099
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
करोति तत्र किं नाम नारीनखविलेखनम् ॥ २॥
1100
सोमकान्तो मणिः स्वच्छ: सूर्यकान्तस्तथा न किम् ।
उद्द्वारे तु विशेषोस्ति तयोरमृतवह्निजः ॥ ३ ॥
1101
स्फटिकस्य गुणो योसौ स एवायाति दोषताम् ।
धत्ते स्वच्छतया छायां यतो मलवतामपि ॥ ४ ॥
1102
सुधाकरकर स्पर्शाद्वहिर्द्रवसि सर्वतः ।
चन्द्रकान्तमणे तेन्तमृदुत्वं लोकविश्रुतम् ॥ ५
1103
वपुःपरीणाहगुणेन तेभ्यो
यशस्विनः किं मणयो भवन्ति ।
१७९
तथापि चूडासु महीपतीनां
त एव खेलन्ति न गण्डरौलाः ॥ ६ ॥
1104
त्यज निजगुणाभिमानं मरकत पतितोसि पामरे वणिजि ।
काचमणेरपि मौल्यं लभसे यत्नादपि ते श्रेयः ॥ ७ ॥