This page has been fully proofread once and needs a second look.

१७८
 
शार्ङ्गधरपद्धतिः
 

 
परिगणय पयोधे पद्मनाभार्धयोग्यं
 

तव निकटनिषण्णैः क्षुल्लकै : श्लाध्घ्यता का ॥ १६ ॥
 
:
 

कस्यापि ।
 

1093
 

इत: स्वपिति केशवः कुलमितस्तदीय द्विषा-

मितच शरणार्थिनः शिखरिपचित्त्रिण: शेरते ।

इतोपि वडवानलः सह समस्तसंवर्तकै-

रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १७ ॥

 

भर्तृहरेः ।
 

1094
 

द्
यामारोहति वाञ्छति स्थगयितुं तेजोपि तेजस्त्रिना-

मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।

कांश्चिद्द्रागुपजीव्य तोयचुलकान्सिन्धोर्भवत्संनिधेः

पानीयप्रत्रयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ १८ ॥
 

कस्यापि ।
 

1095
 

अये वारां राशे कुलिशकर कोपप्रतिभया-

दयं पक्षप्रेम्णा गिरि परिवढत्वामुपगतः ।

त्वदन्तर्वास्तव्याद्यादेयति पुनरयं वाडवशिखी

प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोस्य शरणम् ॥ १९ ॥
 

कस्यापि ।
 

1096
 

किं वाच्यो महिमा महाजलनिधैधेर्यस्येन्द्रवज्राहति-

त्रस्तः क्ष्माभूभृदमज्जदम्बुनिचये कौलीरपोताकृतिः ।

मैनाकोपि गभीरनीर विलसत्पाठीनपृष्ठोल्लस
 
-
च्छेछैवालाङ्कुरकोटिकोटरकुटीकुद्यान्तरे निर्वृतः ॥ २० ॥
 

1097
 

तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषै-

स्तावद्भिः परिवारिता पृथुतरेपःरैर्द्वीपैः समन्तादियम् ।