This page has not been fully proofread.

१७८
 
शार्ङ्गधरपद्धतिः
 
परिगणय पयोधे पद्मनाभार्धयोग्यं
 
तव निकटनिषण्णैः क्षुल्लकै लाध्यता का ॥ १६ ॥
 
:
 
कस्यापि ।
 
1093
 
इत: स्वपिति केशवः कुलमितस्तदीय द्विषा-
मितच शरणार्थिनः शिखरिपचिण: शेरते ।
इतोपि वडवानलः सह समस्तसंवर्तक-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १७ ॥

 
भर्तृहरेः ।
 
1094
 
यामारोहति वाञ्छति स्थगयितुं तेजोपि तेजस्त्रिना-
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।
कांश्चिद्रागुपजीव्य तोयचुलकान्सिन्धोर्भवत्संनिधेः
पानीयप्रत्रयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ १८ ॥
 
कस्यापि ।
 
1095
 
अये वारां राशे कुलिशकर कोपप्रतिभया-
दयं पक्षप्रेम्णा गिरि परिवढत्वामुपगतः ।
त्वदन्तर्वास्तव्याद्यादे पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोस्य शरणम् ॥ १९ ॥
 
कस्यापि ।
 
1096
 
किं वाच्यो महिमा महाजलनिधैर्यस्येन्द्रवज्राहति-
त्रस्तः क्ष्माभूदमज्जदम्बुनिचये कौलीरपोताकृतिः ।
मैनाकोपि गभीरनीर विलसत्पाठीनपृष्ठोल्लस
 
च्छेवालाङ्क रकोटिकोटरकुटीकुद्यान्तरे निर्वृतः ॥ २० ॥
 
1097
 
तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषै-
स्तावद्भिः परिवारिता पृथुतरेपः समन्तादियम् ।