This page has been fully proofread once and needs a second look.

समुद्रान्योक्तयः
 

1087
 

हेलोल्लासितकल्लोल धिकेक्ते सागर गर्जितम् ।

तव तीरे वृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ ११ ॥
 

कस्यापि ।
 

1088
 

तृषं धरायाः शमयत्यशेषं

यः सोम्बुदो गर्जति गर्जतूच्चैः ।

यस्त्वेककस्यापि न हन्ति तृष्णां
 

स किं वथा गर्जति निस्त्रपोन्ब्धिः ॥ १२ ॥
 

कस्यापि ।
 

1089
 

कल्लोलैः स्थगयन्मुखानि ककुमाभाभ्रेलिहैरम्भसा

क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।
 
१७७
 

एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः
 

किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥ १३ ॥
 
:
 

कस्यापि
 

1090
 

यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं

रत्नैरुद्दीपयसि पयसा यत्तिपिधत्स धरित्रीम् ।

धिक्सर्वं तत्तव जलनिधे यद्विमुच्याश्रुवारीधारा-

स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोसि ॥ १४ ॥

गौडाभिनन्दस्य ।
 

1091
 

अयं वारामेको निलय इति रत्नाकर इति
 

श्रितोस्माभिस्तृष्णातरलित मनोभिर्जलनिधिः ।

क एवं जानीते निजकरपुटीकोट रगत
रगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ १५ ॥
 

मालवरुद्रस्य ।
 

1092
 

चपलतरतरंगैर्दूर मुत्सारितोषि
 
पि
प्रथयति त कीर्तितिं दक्षिणावर्तशङ्कः ।
 
ख ।