This page has not been fully proofread.

समुद्रान्योक्तयः
 
1087
 
हेलोल्लासितकल्लोल धिके सागर गर्जितम् ।
तव तीरे वृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ ११ ॥
 
कस्यापि ।
 
1088
 
तृषं धरायाः शमयत्यशेषं
यः सोम्बुदो गर्जति गर्जतूच्चैः ।
यस्त्वेककस्यापि न हन्ति तृष्णां
 
स किं वथा गर्जति नित्रपोन्धिः ॥ १२ ॥
 
कस्यापि ।
 
1089
 
कल्लोलैः स्थगयन्मुखानि ककुमामलिहैरम्भसा
क्षारेणापि दिवानिशं जलनिधे गर्जन विश्राम्यसि ।
 
१७७
 
एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः
 
किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः ॥ १३ ॥
 
:
 
कस्यापि
 
1090
 
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्तिधत्स धरित्रीम् ।
धिक्सर्वं तत्तव जलनिधे यद्विमुच्याश्रुवारी-
स्तीरे नीरग्रहणरसिकरध्वगैरुज्झतोसि ॥ १४ ॥
गौडाभिनन्दस्य ।
 
1091
 
अयं वारामेको निलय इति रत्नाकर इति
 
श्रितोस्माभिस्तृष्णातरलित मनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोट रगत
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ १५ ॥
 
मालवरुद्रस्य ।
 
1092
 
चपलतरतरंगैदूर मुत्सारितोषि
 
प्रथयति तब कीर्ति दक्षिणावर्तशङ्कः ।