This page has been fully proofread once and needs a second look.

समुद्रान्योक्तयः
 
१७५
 

भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं -

निद्रालु: श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ॥ १ ॥

कस्यापि ।
 

1075
 

अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
 

स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभूतः ॥ २ ॥
 

कस्यापि ।
 

1076
 

अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।

ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ ३ ॥

शार्ङ्गधरस्य ।
 

---------------
अथ समुद्रान्योक्तयः ॥ ६२ ॥
 

1077
 

नावज्ञानाद
वैदग्ध्यादुदधेर्महिमैव सः ।

यत्तीरपङ्कमग्रानि महारत्नानि महारत्नानि शेरते ॥ १ ॥
 

1078
 

यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।

तदपि पतनभीतभूधररक्षायां दीक्षितो जलधिः ॥ २ ॥
 

1079
 

यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
 

तथापि जानुदन्घ्नोयमिति चेतसि मा कृथाः ॥ ३ ॥
 

1080
 

रत्नैरापूरितस्यापि मदलेशोस्ति नाम्बुधे: ।
 

मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ ४ ॥
 

1081
 

 

अधः करोषि यद्रत्वंनं मूर्ध्ना धारयसे तृणम् ।

दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ ५ ॥
 

केषामप्येते ।