This page has not been fully proofread.

समुद्रान्योक्तयः
 
१७५
 
भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं -
निद्रालु: लथबाहुवलिकमलाश्लेषो हरिः सीदति ॥ १ ॥
कस्यापि ।
 
1075
 
अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः ।
 
स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभूतः ॥ २ ॥
 
कस्यापि ।
 
1076
 
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥ ३ ॥
शार्ङ्गधरस्य ।
 
अथ समुद्रान्योक्तयः ॥ ६२ ॥
 
1077
 
नावज्ञानाद
वैदग्ध्यादुदधेर्महिमैव सः ।
यत्तीरपङ्कमग्नानि महारत्नानि शेरते ॥ १ ॥
 
1078
 
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।
तदपि पतनभीतभूधररक्षायां दीक्षितो जलधिः ॥ २ ॥
 
1079
 
यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
 
तथापि जानुदन्नोयमिति चेतसि मा कृथाः ॥ ३ ॥
 
1080
 
रत्नैरापूरितस्यापि मदलेशोस्ति नाम्बुधे: ।
 
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ ४ ॥
 
1081
 

 
अधः करोषि यद्रत्वं मूर्ध्ना धारयसे तृणम् ।
दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ ५ ॥
 
केषामप्येते ।