This page has been fully proofread once and needs a second look.

४ शार्ङ्गधरपद्धतिः
 
22
 
धर्मस्य विवृतिर्जेज्ञेया पापस्य विवृतिस्तथा ।
अथान्योक्तिषु विज्ञेयं रवेः पूर्वं प्रशंसनम् ॥ १० ॥
 
23
 
चन्द्रस्यान्योक्तयो ज्ञेयो मेघस्यान्योक्तयस्तथा ।
वायोरन्योक्तिरपरा हंसान्योक्तिस्ततः परा ॥ ११ ॥
 
24
 
भ्रमरान्योक्तयस्तद्वत्कोकिलान्योक्तयस्ततः ।
चातकान्योक्तयस्तद्ववन्मयूरान्योक्तयस्ततः ॥ १२ ॥
 
25
 
शुकान्योक्तिस्ततो ज्ञेया काकान्योक्तिस्ततः स्मृता ।
बकान्योक्तिः स्मृता तद्वत्खद्योतान्योक्तयस्ततः ॥ १३ ॥
 
26
 
सिंहान्योक्तिर्गजान्योक्तिर्मृगान्योक्तिस्ततः परम् ।
करभान्योक्तयो ज्ञेया वृषभान्योक्तयस्ततः ॥ १४ ॥
 
27
 
तथा सामान्यवृक्षोक्तिर्विशिष्टतरुपद्धतिः ।
पर्वतान्योक्तयः ख्याता अगस्त्यान्योक्तयस्ततः ॥ १५ ॥
 
28
 
समुद्रान्योक्तयस्तद्वद्रत्नान्योक्तिस्ततः परम् ।
शङ्खस्यान्योक्तयस्तद्वन्नद्यन्योक्तिस्ततः परम् ॥ १६ ॥
 
29
 
तटाकान्योक्तयस्तद्वत्कमलान्योक्तयस्ततः ।
कूपस्यान्योक्तयस्तद्वन्मरुस्थलभवोक्तयः ॥ १७ ॥
 
30
 
ततो दावानलान्योक्तिः संकीर्णान्योक्तयस्ततः ।
अथ सर्वनृपाशंसा विशिष्टनृपवर्णनम् ॥ १८ ॥
 
31
 
पलायनमरीणां च राजनीतिस्ततः परम् ।
नीतिर्मिश्रकनीतिश्च प्रशंसा करिणां तथा ॥ १९ ॥