This page has been fully proofread once and needs a second look.

पर्वतान्योक्तयः
 

ईश्वरश्वशुरता प्रभावत
 
स्त
-
स्तद्
ध्रुवं जगति जृम्भते यशः ॥ १ ॥

शार्ङ्गधरस्य ।
 

1065
 

ये संतोषमुसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो

येप्यन्ये धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् ।

इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां

स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ २ ॥
 

विद्यापतेः ।
 

1066
 

आचक्ष्महे बत किमद्यतनीमत्रस्थां
 

तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
 

यत्रैव सप्त मुनयस्तपसा निषेदुः
 

सोयं विलासवसतिः पिशिताशनानाम् ॥ ३ ॥
 

कस्यापि ।
 

1067
 

मन्यामहे मलयमेव यदाश्रयेण
 
1
 

शाखोटनिम्बकुटजा अपि चन्दनन्ति ।
 

किं तेन हेमगिरिणा रजताद्रिणा वा

यस्याश्रिताश्च तरवस्तरवस्त एव ॥ ४ ॥

कस्यापि ।
 

1068
 

मुरारातिर्लक्ष्मीमीं त्रिपुरविजयी शीतकिरणं

करीन्द्रं पौलोमीपतिरपि स लेभे जलनिधेः ।

त्वया किं वा लब्धं कथय मथितो मन्दर गिरे

शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ ५ ॥
 

कस्यापि
 

1069
 

शक्रादरक्षि यदि पक्षयुगं तथापि

मैनाक सन्ति तत्र नेह गतागतानि ।
 
१७३