This page has not been fully proofread.

पर्वतान्योक्तयः
 
ईश्वरश्वशुरता प्रभावत
 
स्तध्रुवं जगति जृम्भते यशः ॥ १ ॥
शार्ङ्गधरस्य ।
 
1065
 
ये संतोषमुखप्रबुद्धमनसस्तेषामभिन्नो मृदो
येप्यन्ये धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् ।
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ २ ॥
 
विद्यापतेः ।
 
1066
 
आचक्ष्महे बत किमद्यतनीमत्रस्थां
 
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
 
यत्रैव सप्त मुनयस्तपसा निषेदुः
 
सोयं विलासवसतिः पिशिताशनानाम् ॥ ३ ॥
 
कस्यापि ।
 
1067
 
मन्यामहे मलयमेव यदाश्रयेण
 
1
 
शाखोटनिम्बकुटजा अपि चन्दनन्ति ।
 
किं तेन हेमगिरणा रजताद्रिणा वा
यस्याश्रिताश्च तरवस्तरवस्त एव ॥ ४ ॥
कस्यापि ।
 
1068
 
मुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं
करीन्द्र पौलोमीपतिरपिस लेभे जलनिधेः ।
त्वया किं वा लब्धं कथय मथितो मन्दर गिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ ५ ॥
 
कस्यापि
 
1069
 
शक्रादरक्षि यदि पक्षयुगं तथापि
मैनाक सन्ति तत्र नेह गतागतानि ।
 
१७३