This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धति
 

1060
 

रूढस्य सिन्धुतटमनु तस्य तृणस्यापि जन्म कल्याणम् ।

यत्सलिलमज्जदाकुलजनस्य हस्तावलम्बनं भवति ॥ ७४ ॥
 

वल्
लभदेवस्य ।
 
१७२
 

अथ ताम्बूलवल्ली ।
 

1061
 

वल्
लीनां कति न स्फुरन्ति परितः पचात्त्राणि किं तैरिह

स्निग्वैरण्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।

तानेव स्तुमहे महाजन मुखश्रीकारि जन्मत्व्रता-
न्यान्स्

न्यान्सू
ते नवनागरीप्रियतमांस्तांम्बुलवल्ली दान् ॥ ७५ ॥
 

कस्यापि ।
 

1062
 

किं वीरुधो भुवि न सन्ति सहस्रसंख्या

यासां दलानि न परोपकृतिं भजन्ति ।

केत्र वकैव वल्लिषु विराजति नागवल्ली
 

या नागरीवदनचन्द्रमलंकरोति ॥ ७६ ॥
 

कस्यापि ।
 

अथ तुम्बी ।
 

1063
 

सर्वास्तुम्च्ब्यः समकटुर सास्तुम्बिवल्लीप्रसूता-

स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।

शब्दायन्ते सरसमपरा: शुष्ककाष्टे निषण्णा-

स्तन्मध्येन्या ज्वलितहृदया: शोणितं संपिबन्ति ॥ ७७ }
 

कस्यापि ।
 

-------------
अथ पर्वतान्योक्तयः ॥ ६० ॥
 

1064
 

विन्ध्यमन्दर सुमेरुभूभृतां
 

यत्पतिस्तुहिनपर्वतोभवत् ।