This page has been fully proofread once and needs a second look.

वृक्षविशेषान्योक्तयः
 

1055
 

निष्पेषोत्थ महाव्यथा परतरं ना प्राप्तं तुलारोहणं

ग्राम्यस्त्री नख लुञ्चन व्यतिकर स्तन्त्री प्रहार व्यथा ।

मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः

कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ ६९ ॥
 

केषामप्येते ।
 

अथ शणः ।

1056
 

भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।
 

परबन्धनाय च शण: प्रेक्षध्वमिहान्तरं कीदृक् ॥ ७० ॥
 

वल्लभवेवस्य ।
 

अथ कण्टकारिका ।

1057
 

उचितं नाम नारंग्यां केतक्यामपि कण्टकाः ।
 

रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ ७१ ॥
 

कस्यापि ।
 

अथ धत्तूरः ।
 

1058
 

महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
 

विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।

तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः

परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ ७२ ॥
 

प्रह्लादनस्य ।
 

अथ तृणानि ।
 

1059
 

उत्तुङ्गैस्तरुभिः किमेभिर खिलैराकाशसंस्पर्धिभि

र्
धन्योसौ नितरामुलूपविटपी नद्यास्तटेवस्थितः ।
 

एवं यः कृतबुरुद्धिद्धतजलव्यालोलवीचीवशा-

न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा ॥ ७३ ॥
 

राणकस्य ।
 
१७१