This page has been fully proofread once and needs a second look.

१७०
 
शार्ङ्गधरपद्धतिः
 

अथ बिल्वः ।
 
:
 

1050
 

आमोदीनि सुमेदुराणि च मृदुस्वादृदूनि च क्ष्मारुहा-

मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।

किंतु श्रीफलता तवैव जयिनी मालूर दिङ्गग्मण्डले

यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ ६४ ॥
 

कस्यापि ।
 

अथ शालिः ।
 

1051
 

शाखासंततिसंनिरुद्धनभसो भूयांस एवावनी
 
नौ
विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम् ।

किंतु द्वित्रिदलैरलंकृततनो: शाले: स्तुमस्तुङ्गतां

त्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ ६५ ॥

नम्मैयस्य ।
 

पेथेक्षुः ।
 

1052
 

परार्थे यः पीडामनुभवति भङ्गेपि मधुरो

यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।

न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः

किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभुव: ॥ ६६ ॥
 

इन्दुराजस्य ।
 

1053
 

मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं

न संतप्तः कोपि क्षणमपि भजेन्मूलमभितः ।

फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-

स्तदिक्षो नो युक्तं विहितमितरैर्यन्त्रदलनम् ॥ ६७ ॥
 

कस्यापि ।
 

अथ कर्पासः ।
 

1054
 

श्
लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि ।

मुक्ताफलानि तरुणीकुचकलशेषु सुष्टुठु विलसन्ति ॥ ६८ ॥