This page has been fully proofread once and needs a second look.


न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
स्तदुज्झत वृथा स्थितिं बत सहध्वमध्वश्रमम् ॥ ५८ ॥
कस्यापि ।
अथ किंशुकः ।
1045
किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया ।
बाह्यरङ्गप्रसङ्गेन के के नानेन वञ्चिताः ॥ ५९ ॥
कस्यापि ।
अथ शाखोटः ।
1046
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वृक्ष साधु विदितं कस्मादिदं भाषसे ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ ६० ॥
कस्यापि ।
अथ पीलुः ।
1047
धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ
क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।
किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै -

र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ ६१ ॥

शक्तिकुमारस्य ।

अथ करीरः

1048

फलं दूरतरेप्यास्तां पुष्णासि कुसुमैर्जनान् ।

इतरे तरवो मन्ये करीर त किंकराः ॥ ६२ ॥

1049

किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।
येन वृद्धिधिं समासाद्य न कृतः पत्रसंग्रहः ॥ ६३ ॥
 
1