This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

अथ तालः ।

1030
 

अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
हू

द्दू
रादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।

यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा

शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ ४४ ॥
 

कस्यापि ।
 

अथ भूर्जः ।
 

1031
 

दौर्जन्यमात्मनि परं प्रथितं विधात्रा
 

भूर्जद्रुमस्य विफलत्वसमर्पणेन ।

किं चर्मभिर्निशितशस्त्रशताव कृत्तै-

राशां न पूरयति सोपिर्थिपरंपराणाम् ॥ ४५ ॥
 

ट्टगोविन्दराजस्य ।
 

1032
 

कुर्वन्तु नाम जनतोपकृतिं प्रसून
 

च्छायाफलैर विकलैः मुसुमैभैर्द्रुमास्ते ।
 

सोढास्तु कर्तनरुजः पररक्षणार्थ-

मेकेन भूर्जतरुणा करुणापरेण ॥ ४६ ॥
 

श्रीवैद्यभानुपण्डितस्य ।
अथाश्वत्थः ।
 

1033
 
-
 
1
 

वर्धि
तैः सेवितैः किं तैः सत्यश्वत्थेन्यपादपै : ।
 
वर्षि

वर्धि
तो नरकाद्रक्षेत्स्पृष्टोरिष्टानि हन्ति यः ॥ ४७ ॥
 

माधवमागधस्य ।
 

अथ न्यग्रोधः ।
 

1034
 
श्रीवैद्यभानुपण्डितस्य ।
 

विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
ज्यमो

न्यग्रो
ध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् ।