This page has not been fully proofread.

वृक्षविशेषान्योक्तयः
 
अथ कदली ।
 
1025
 
तालीतरोरनुपकारि फलं फलित्वा
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
पाणान्निजाञ्झागति यत्कदली जहाति ॥ ३९ ॥
 
कस्यापि ।
 
अथ द्राक्षा ।
 
1026
 
पेन भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।
 
असमञ्जसं हि दृष्ट्वा तथापि परितप्यते चेतः ॥ ४० ॥
 
कस्यापि ।
 
1027
 
दासेरकस्य दासीयं बदरी यदि रोचते ।
एतावते किं द्राक्षा न साक्षादमृतप्रदा ॥ ४१ ॥
कर्पूरकवेः ।
 
अथ दाडिमम् ।
 
1028
 
१६५
 
आ पुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
हो दाडिम तावदेव सहसे वृद्धि स्वकीयामिह ।
यावनैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनातिबन्धो भवान् ॥ ४२ ॥
श्री मोजदेवस्य ।
 
अथ नालिकेरः ।
 
1029
 
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
 
शिरसि निहितभारा नालिकेरा नराणाम् ।
 
ददति जलमनल्गास्वादमाजीवितान्तं
 
नहि कृतयुपकार साथ। ४.३ ॥
 
कस्थापि