This page has been fully proofread once and needs a second look.

अनुक्रमणिका
 
अथानुक्रमणिका ॥ २ ॥
 
13
 
क्रियतेनुक्रमः स्पष्ट: सुबोधार्थं सुभाषिते ।
अत्र तु प्रथमं ज्ञेयं कविवंशस्य वर्णनम्[^१] ॥ १ ॥
 
14
 
ततोप्यनुक्रमो ज्ञे[^२]यो नमस्कृत्याशिषौ तथा[३-४] ।
सुभाषिते च काव्ये च शंसा[^५-६] सामान्यवर्णके[^७] ॥ २ ॥
 
15
 
विशिष्टकविशंसा च[^८] निन्दा त्र कुकवेस्ततः[^९] ।
प्रशंसा पण्डितस्यापि[^१०] निन्दा स्याच्च कुपण्डिते[^११] ॥ ३ ॥
 
16
 
प्रशंसा महतां ज्ञेया[^१२] धीराणां च प्रशंसनम्[^१३] ।
प्रशंसा सज्जनस्यापि[^१४] प्रशंसा च मनस्विनः[^१५] ॥ ४ ॥
 
17
 
अथोदारप्रशंसा स्याच्छंसा[^१६] तेजस्विनस्ततः[^१७] ।
गुणप्रशंसा[^१८] संतोषे प्रशंसा[^१९] संगतौ तथा[^२०] ॥ ५ ॥
 
18
 
धनप्रशंसा विज्ञेया[^२१] निन्दा दुर्जनजा तथा[^२२] ।
ततः कृपणनिन्दा स्यान्निन्दा[^२३] याचकजा तथा[^२४] ॥ ६ ॥
 
19
 
दरिद्रनिन्दा विज्ञेया[^२५] मूर्खनिन्दा ततः परम्[^२६] ।
तृष्णानिन्दा[^२७] लोभनिन्दा[^२८] दैवाख्यानं ततः परम्[^२९] ॥ ७ ॥
 
20
 
उद्यमाख्यानमपरं[^३० प्रकीर्णाख्यानकं तथा[^३१] ।
समस्याख्यानमपरं[^३२] प्रहेल्यादिप्रशंसनम्[^३३] ॥ ८ ॥
 
21
 
क्रियागुप्तादिकं तद्वत्प्रश्नोत्तरमतः[^३४] परम्[^३५] ।
अथ जाति: समाख्याता[^३६] सदाचारस्ततः परम्[^३७] ॥ ९ ॥