This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
1020
 
एतस्मिन्वन मार्गभूपरिसरे सौन्दर्य मुद्राङ्कितः
प्रोद्यद्भिः फलपत्चपुष्पनियैश्रुतः स एकः परम् ]
यं वीक्ष्य स्मितवमुद्रतमहासंतोषमुल्लासित-
स्फारोत्कण्डमकुण्डितक्रमममी धावन्ति पान्थत्रजाः ॥ ३४ ॥
 
भट्टनायकस्य ।
 
1021
 
छाया फलानि मुकुलानि च यस्य विश्व-
माहादयन्ति सहकारमहीरुहस्य ।
आमृष्य तस्य शिखया नवपलवानि
मनासि रे दबहुताश हताश कष्टम् ॥ ३५ ॥
 
कस्यापि ।
 
1022
 
कूष्माण्डीफलवरफलं न यदपि न्यग्रोधवनोचता
रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।
सौरभ्यं कुसुमे दले तदपि तत्किचित्समुज्जृम्भते
लोके येन रसाल साल नितरां व्यक्का गुणांस्तौमि ते ॥ ३६ [।
 
शार्ङ्गधरस्य ।
 
1023
 
यावत्फलोदयमुखः सहकार जात-
स्तावच कण्टककुलैः परिवेष्टितोसि ।
छायापि ने न सुलभा फलमस्तु दूरे
 
एवं निष्फलो वरमहो सुखसेवनीयः ॥ ३७ ॥
 
कस्यापि ।
 
अथ पनमः ।
1024
 
गरीय: सौरभ रसपरिचये नाईत सुधा
 
सिना मुहीकापि प्राथमनि निमनः फलभरः ।
पराये कोशश्रीगिन फुलकित: कण्डकमिया-
रहो ते वारिचं पनम मनसः कस्य न मुठे ॥ ३८ ॥
 
का स्थापि ।